Skip to main content
Search
Ch. 7 KS 7.41
Full Chapter
KS • Chapter 7: Canto 7

KS 7.41

Canonical Ref: KS 7.41
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
उपाददे तस्य सहस्ररश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् । स तद्दुकूलादविदूरमौलिर्बभौ पतद्गङ्ग इवोत्तमाङ्गे ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): उपादद इति । तस्य हरस्य सहस्ररश्मिः सूर्यस्त्वष्ट्रा विश्वकर्मणा निर्मितं नवमातपत्रमुपाददे । धृतवानित्यर्थः । उत्प्रेक्षते- तद्दुकूलात्तस्यातपत्रस्य प्रान्तलम्बिनो दुकूलादविदूरमौलिः । तद्दुकूलस्यासन्नमौलिरित्यर्थः । स हर उत्तमाङ्गे शिरसि । `उत्तमाङ्गं शिरः शीर्षम्` इत्यमरः (अ.को.2|6|96) । पतन्ती गङ्गा यस्य स पतद्गङ्ग इव बभौ । तद्दुकूलादित्यत्र `दूरान्तिकार्थैः षष्ट्यन्यतरस्याम्` इति दूरार्थयोगे विकल्पेन पञ्चमी । नाथेनोक्तम् `अन्यारात्-` इत्यत्राराच्छब्दस्यार्थग्रहणार्थत्वात् पञ्चमीति तदनाकरम् । किंचास्य शास्त्रोक्तविकल्पापवादत्वात् `दूरं ग्रामस्य` इत्यादि षष्ठीप्रयोगो दूरापास्तः स्यादित्युपेक्षणीयमेव अन्वयः: तस्य सहस्त्ररश्मिः त्वष्ट्रा निर्मितं नवम् आतपत्रम् उपाददे । तद्दुकूलात् अविदूरमौलिः स उत्तमाऽङ्गे पतद्गङ्ग इव बभौ ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
उपाददे
Lemma: उपादा
POS: 3. Ā. • Verb: उपाददे
तस्य
Lemma: तद्
POS: pron
सहस्ररश्मिस्
Lemma: सहस्ररश्मि
POS: m
त्वष्ट्रा
Lemma: त्वष्टृ
POS: m
नवं
Lemma: नव
POS: adj
निर्मितम्
Lemma: निर्मा
POS: 2. P.
आतपत्रम्
Lemma: आतपत्र
POS: n
स
Lemma: तद्
POS: pron
तद्दुकूलाद्
Lemma: तद्
POS: pron
तद्दुकूलाद्
Lemma: दुकूल
POS: n
अविदूरमौलिर्
Lemma: अविदूर
POS: adj
अविदूरमौलिर्
Lemma: मौलि
POS: mf
बभौ
Lemma: भा
POS: 2. Ā. • Verb: बभौ
पतद्गङ्ग
Lemma: पत्
POS: 1. Ā.
पतद्गङ्ग
Lemma: गङ्गा
POS: f
इवोत्तमाङ्गे
Lemma: इव
POS: ind
इवोत्तमाङ्गे
Lemma: उत्तमाङ्ग
POS: n
Canonical CTS URN Reference
Kumārasambhavam, KS 7.41. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.40) All Verses in Chapter 7 Next Verse (KS 7.42) →