Skip to main content
Search
Full Chapter
KS • Chapter 7: Canto 7

KS 7.4

Canonical Ref: KS 7.4
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
एकैव सत्यामपि पुत्रपङ्क्तौ चिरस्य दृष्टेव मृतोत्थितेव । आसन्नपाणिग्रहणेति पित्रोरुमा विशेषोच्छ्वसितं बभूव ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): एकैवेति । पुत्राश्च दुहितरश्च पुत्राः । `भ्रातृपुत्रौ स्वसृदुहितृभ्याम्` (पा.1|2|68) इत्यैकशेषः । `पुत्रौ पुवश्च दुहिता च` इत्यमरः । तेषां पङ्क्तौ संघे सत्यामप्युमैकैव चिरस्य दृष्टेव चिरान्नष्टलब्धेव मृतोत्थितेव मृत्वा पुनरुत्पन्नेवासन्नपाणिग्रहणासन्नविवाहेति । भर्तृगृहं गमिष्यतीति हेतोरित्यर्थः । पित्रोः मातापित्रोः । `पिता मात्रा` (पा.1|2|70) इत्येकशेषः । विशेषेणोच्छ्वासितं प्राणभूता बभूव । पुमपत्यादपि अधिकप्रेमास्पदमभूदित्यर्थः अन्वयः: पुत्रपङ्क्तौ सत्याम् अपि उमा एका एव चिरस्य दृष्टा एव मृतोत्थिता इव आसन्नपाणिग्रहणा इति पित्रोः विशेषोच्छ्वसितं बभूव ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
एकैव
Lemma: एक
POS: pron
एकैव
Lemma: एव
POS: ind
सत्याम्
Lemma: अस्
POS: 2. P.
अपि
Lemma: अपि
POS: ind
पुत्रपङ्क्तौ
Lemma: पुत्र
POS: m
पुत्रपङ्क्तौ
Lemma: पङ्क्ति
POS: f
चिरस्य
Lemma: चिरस्य
POS: ind
दृष्टेव
Lemma: दृश्
POS: 6. P.
दृष्टेव
Lemma: इव
POS: ind
मृतोत्थितेव
Lemma: मृ
POS: 4. Ā.
मृतोत्थितेव
Lemma: उत्था
POS: 1. Ā.
मृतोत्थितेव
Lemma: इव
POS: ind
आसन्नपाणिग्रहणेति
Lemma: आसद्
POS: 2. P.
आसन्नपाणिग्रहणेति
Lemma: पाणिग्रहण
POS: n
आसन्नपाणिग्रहणेति
Lemma: इति
POS: ind
पित्रोर्
Lemma: पितृ
POS: m
उमा
Lemma: उमा
POS: f
विशेषोच्छ्वसितं
Lemma: विशेष
POS: m
विशेषोच्छ्वसितं
Lemma: उच्छ्वस्
POS: 2. Ā.
बभूव
Lemma: भू
POS: 1. Ā. • Verb: बभूव
Canonical CTS URN Reference
Kumārasambhavam, KS 7.4. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.3) All Verses in Chapter 7 Next Verse (KS 7.5) →