Skip to main content
Search
Ch. 7 KS 7.31
Full Chapter
KS • Chapter 7: Canto 7

KS 7.31

Canonical Ref: KS 7.31
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
तद्गौरवान्मङ्गलमण्डनश्रीः सा पस्पृशे केवलमीश्वरेण । स्व एव वेषः परिणेतुरिष्टं भावान्तरं तस्य विभोः प्रपेदे ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तदिति । ईश्वरेण शिवेन सा मङ्गलमण्डनश्रीः शुभप्रसाधनसंपत्तद्गौरवात्तासु मातृष्वादरात्केवलं पस्पृशे स्पृष्टैव, न तु दध्रे इत्यवधारणार्थः केवलशब्दः । `केवलं चावधारणे` इति शाश्वतः । किंतु तस्य विभोर्देवस्य स एव वेषः स्वाभाविको भस्मकपालादिवेष एव परिणेतुर्लोकरुद्वोढुरिष्टमपेक्षितं भावान्तरं रुपान्तरं प्रपेदे । अङ्गरागादिरुपतां प्रापेत्यर्थः अन्वयः: ईश्वरेण सा मङ्गलमण्डनश्रीः तद्गौरवात् केवलं पस्पृशे । (किन्तु) तस्य विभोः स एव वेषः परिणेतुः इष्टं भावान्तरं प्रपेदे ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
तद्गौरवान्
Lemma: तद्
POS: pron
तद्गौरवान्
Lemma: गौरव
POS: n
मङ्गलमण्डनश्रीः
Lemma: मङ्गल
POS: n
मङ्गलमण्डनश्रीः
Lemma: मण्डन
POS: n
मङ्गलमण्डनश्रीः
Lemma: श्री
POS: f
सा
Lemma: तद्
POS: pron
पस्पृशे
Lemma: स्पृश्
POS: 6. Ā. • Verb: पस्पृशे
केवलम्
Lemma: केवलम्
POS: ind
ईश्वरेण
Lemma: ईश्वर
POS: m
स्व
Lemma: स्व
POS: adj
एव
Lemma: एव
POS: ind
वेषः
Lemma: वेष
POS: m
परिणेतुर्
Lemma: परिणेतृ
POS: m
इष्टं
Lemma: इष्
POS: 1. P.
भावान्तरं
Lemma: भाव
POS: m
भावान्तरं
Lemma: अन्तर
POS: adj
तस्य
Lemma: तद्
POS: pron
विभोः
Lemma: विभु
POS: adj
प्रपेदे
Lemma: प्रपद्
POS: 4. P. • Verb: प्रपेदे
Canonical CTS URN Reference
Kumārasambhavam, KS 7.31. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.30) All Verses in Chapter 7 Next Verse (KS 7.32) →