Skip to main content
Search
Ch. 7 KS 7.29
Full Chapter
KS • Chapter 7: Canto 7

KS 7.29

Canonical Ref: KS 7.29
Metrical Form: इन्द्रवज्रा
Sanskrit (Devanāgarī)
इच्छाविभूत्योरनुरूपमद्रिस्तस्याः कृती कृत्यमशेषयित्वा । सभ्यः सभायां सुहृदास्थितायां तस्थौ वृषाङ्कागमनप्रतीक्षः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): इच्छेति । कृती कुशलः । सभायां साधुः सभ्यः । `सभाया यः` (पा.4|4|105) इति यप्रत्ययः । अद्रिर्हिमवानिच्छाविभूत्योरुत्साहैश्वर्ययोरनुरुपं सदृशं यथा तथा तस्याः पार्वत्याः कृत्यं कर्तव्यमशेषं निःशेषं कृत्वा । समाप्येत्यर्थः । अशेषशब्दात् `तत्करोति` इति ण्यन्तात्क्त्वाप्रत्ययः । सुहृदास्थितायां बन्धुजनाक्रान्तायां सभायां संसदि वृषाङ्कस्य हरस्यागमनं प्रतीक्षत इति तथोक्तः सन् `कर्मण्यण्` (पा.3|2|1) इत्यण् । तस्थौ स्थितः अन्वयः: कृकती सभ्यः अद्रिः इच्छाविभूत्योः अनुरुपं तस्याः कृत्यम् अशेषयित्वा सुहृदास्थितायां सभायां वृषाऽङ्कागमनप्रतीक्षः (सन्) तस्थौ ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
इच्छाविभूत्योर्
Lemma: इच्छा
POS: f
इच्छाविभूत्योर्
Lemma: विभूति
POS: f
अनुरूपम्
Lemma: अनुरूप
POS: adj
अद्रिस्
Lemma: अद्रि
POS: m
तस्याः
Lemma: तद्
POS: pron
कृती
Lemma: कृतिन्
POS: adj
कृत्यम्
Lemma: कृत्य
POS: n
अशेषयित्वा
Lemma: अशेषयित्वा
POS: ind
सभ्यः
Lemma: सभ्य
POS: m
सभायां
Lemma: सभा
POS: f
सुहृदास्थितायां
Lemma: सुहृद्
POS: m
सुहृदास्थितायां
Lemma: आस्था
POS: 1. Ā.
तस्थौ
Lemma: स्था
POS: 1. Ā. • Verb: तस्थौ
वृषाङ्कागमनप्रतीक्षः
Lemma: वृषाङ्क
POS: m
वृषाङ्कागमनप्रतीक्षः
Lemma: आगमन
POS: n
वृषाङ्कागमनप्रतीक्षः
Lemma: प्रतीक्ष
POS: adj
Canonical CTS URN Reference
Kumārasambhavam, KS 7.29. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.28) All Verses in Chapter 7 Next Verse (KS 7.30) →