Skip to main content
Search
Ch. 7 KS 7.19
Full Chapter
KS • Chapter 7: Canto 7

KS 7.19

Canonical Ref: KS 7.19
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् । सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): पत्युरिति । सख्या कर्त्र्या । चरणौ रञ्जयित्वा लाक्षारसाक्तौ कृत्वा । कृताशीरिति करोतिना समानकर्तृकत्वम् । अनेन चरणेन रञ्जने द्वयोरपि नियमाच्चरणावित्युक्त्वाप्यौचित्यात्ताडनविधावेकतरपरामर्श इत्याहुः । पत्युरीश्वरस्य शिरश्चन्द्रकलाम् । सुरतविशेष इति शेषः । स्पृश ताडयेति परिहासपूर्वं कृताशीः प्रयुक्ताशीर्वादा सा पार्वती तां सखीं माल्येन मालया । `माल्यं मालास्रजौ` इत्यमरः (अ.को.2|6|136) । निर्वचनं यथा तथा । तूष्णीमित्यर्थः । जघान ताडयामास । निर्वचनमित्यनेन विहृताख्यः श्रृङ्गारानुभाव उक्तः । तदुक्तम् । `प्राप्तकाले तु यद् ब्रूयात्कुर्याद्वा विहृतं हि तत्` । इति अन्वयः: सख्या चरणौ रञ्जयित्वा `अनेन पत्युः शिरश्चन्द्रकलां स्पृश` इति परिहासपूर्वं कृताशीः सा तां माल्येन निर्वचनं जघान ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
पत्युः
Lemma: पति
POS: m
शिरश्चन्द्रकलाम्
Lemma: शिरस्
POS: n
शिरश्चन्द्रकलाम्
Lemma: चन्द्र
POS: m
शिरश्चन्द्रकलाम्
Lemma: कला
POS: f
अनेन
Lemma: इदम्
POS: pron
स्पृशेति
Lemma: स्पृश्
POS: 6. Ā. • Verb: स्पृश
स्पृशेति
Lemma: इति
POS: ind
सख्या
Lemma: सखी
POS: f
परिहासपूर्वम्
Lemma: परिहास
POS: m
परिहासपूर्वम्
Lemma: पूर्वम्
POS: ind
सा
Lemma: तद्
POS: pron
रञ्जयित्वा
Lemma: रञ्जय्
POS: 10. Ā.
चरणौ
Lemma: चरण
POS: mn
कृताशीर्
Lemma: कृ
POS: 2. Ā.
कृताशीर्
Lemma: आशी
POS: f
माल्येन
Lemma: माल्य
POS: n
तां
Lemma: तद्
POS: pron
निर्वचनं
Lemma: निर्वचन
POS: n
जघान
Lemma: हन्
POS: 6. P. • Verb: जघान
Canonical CTS URN Reference
Kumārasambhavam, KS 7.19. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.18) All Verses in Chapter 7 Next Verse (KS 7.20) →