Skip to main content
Search
Ch. 7 KS 7.16
Full Chapter
KS • Chapter 7: Canto 7

KS 7.16

Canonical Ref: KS 7.16
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
लग्नद्विरेफं परिभूय पद्मं समेघलेखं शशिनश्च बिम्बम् । तदाननश्रीरलकैः प्रसिद्धैश्चिच्छेद सादृश्यकथाप्रसङ्गम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): लग्नेति । प्रसिद्धैर्भूषितैः । `प्रसिद्धौ ख्यातभूषितौ` इत्यमरः (अ.को.3|3|112) । अलकैरुपलक्षिता तस्या गौर्याः आननश्रीर्लग्नद्विरेफं पद्मं समेधलेखं मेघरेखायुक्तं शशिनो बिम्बं च परिभूय तिरस्कृत्य सादृश्यमुपमा तस्य कथोक्तिस्तस्याः प्रसङ्गं प्रसक्तिं सादृश्यं वाङ्मात्रप्रसक्तमपि चिच्छेदाभिनत् । प्रसक्तयोः पद्मचन्द्रयोः परिभूतत्वादन्यत्र चाप्रसङ्गादित्यर्थः । अत्र पूर्वार्धवाक्यार्थस्य सादृश्यकथाच्छेदं प्रति हेतुत्वेनोपन्यासात्काव्यलिङ्गमलंकारः । लक्षणं तूक्तम् अन्वयः: प्रसिद्धैः अलकैः तदाननश्रीः लग्नद्विरेफं पद्मं, समेघलेखं शशिनो बिम्बं च परिभूय सादृश्यकथाप्रसङ्गं चिच्छेद ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
लग्नद्विरेफं
Lemma: लग्
POS: 1. P.
लग्नद्विरेफं
Lemma: द्विरेफ
POS: m
परिभूय
Lemma: परिभू
POS: 1. Ā.
पद्मं
Lemma: पद्म
POS: mn
समेघलेखं
Lemma: स
POS: ind
समेघलेखं
Lemma: मेघ
POS: m
समेघलेखं
Lemma: लेखा
POS: f
शशिनश्
Lemma: शशिन्
POS: m
च
Lemma: च
POS: ind
बिम्बम्
Lemma: बिम्ब
POS: mn
तदाननश्रीर्
Lemma: तद्
POS: pron
तदाननश्रीर्
Lemma: आनन
POS: n
तदाननश्रीर्
Lemma: श्री
POS: f
अलकैः
Lemma: अलक
POS: mn
प्रसिद्धैश्
Lemma: प्रसिध्
POS: 4. P.
चिछेद
Lemma: छिद्
POS: 1. P. • Verb: चिछेद
सादृश्यकथाप्रसङ्गम्
Lemma: सादृश्य
POS: n
सादृश्यकथाप्रसङ्गम्
Lemma: कथा
POS: f
सादृश्यकथाप्रसङ्गम्
Lemma: प्रसङ्ग
POS: m
Canonical CTS URN Reference
Kumārasambhavam, KS 7.16. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.15) All Verses in Chapter 7 Next Verse (KS 7.17) →