Skip to main content
Search
Ch. 5 KS 5.26
Full Chapter
KS • Chapter 5: Canto 5

KS 5.26

Canonical Ref: KS 5.26
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
निनाय सात्यन्तहिमोत्किरानिलाः सहस्यरात्रीरुदवासतत्परा । परस्पराक्रन्दिनि चक्रवाकयोः पुरो वियुक्ते मिथुने कृपावती ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): निनायेति । सा पार्वती । उत्किरन्ति क्षिपन्तीत्युत्किराः । `इगुपधज्ञा-` इत्यादिना कः । अत्यन्तं हिमानामुत्किरा अनिला यासु ताः सहस्यरात्रीः पौषरात्रीः । `पौषे तैषसहस्यौ द्वौ` इत्यमरः (अ.को.1|4|16) । उदके वास उदवासः `पेषंवासवाहनधिषु च` (पा.6|3|58) इत्युदादेशः । उदवासे तत्परा आसक्ता तथा परस्परमाक्रन्दिन्यन्योन्यमाक्रोशिनि पुरोऽग्रे वियुक्ते विरहिणि । वियोगं प्राप्त इति यावत् । चक्रवाकी च चक्रवाकश्च चक्रवाकौ तयोश्चक्रवाकयोर्मिथुने द्वन्द्वे कृपावती सती निनाय । दुःखिषु कृपालुत्वं महतां स्वभाव इति चक्रवाकमिथुने कृपा न तु कामितयेति वाच्यानवकाशः । `अप्सु वासस्तु हेमन्ते क्रमशो वर्धयेत्तपः` । इति मनुः अन्वयः: सा अत्यन्तहिमोत्किराऽनिलाः सहस्यरात्रीः उदवासतत्परा परस्पराक्रन्दिनि पुरो वियुक्ते चक्रवाकयोः मिथुने कृपावती सती निनाय ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
निनाय
Lemma: नी
POS: 2. P. • Verb: निनाय
सात्यन्तहिमोत्किरानिलाः
Lemma: तद्
POS: pron
सात्यन्तहिमोत्किरानिलाः
Lemma: अत्यन्त
POS: adj
सात्यन्तहिमोत्किरानिलाः
Lemma: हिम
POS: adj
सात्यन्तहिमोत्किरानिलाः
Lemma: उत्किर
POS: adj
सात्यन्तहिमोत्किरानिलाः
Lemma: अनिल
POS: m
सहस्यरात्रीर्
Lemma: सहस्य
POS: m
सहस्यरात्रीर्
Lemma: रात्रि
POS: f
उदवासतत्परा
Lemma: उद
POS: n
उदवासतत्परा
Lemma: वास
POS: m
उदवासतत्परा
Lemma: तत्पर
POS: adj
परस्पराक्रन्दिनि
Lemma: परस्पर
POS: adj
परस्पराक्रन्दिनि
Lemma: आक्रन्दिन्
POS: adj
चक्रवाकयोः
Lemma: चक्रवाक
POS: m
पुरो
Lemma: पुरस्
POS: ind
वियुक्ते
Lemma: वियुज्
POS: 4. P.
मिथुने
Lemma: मिथुन
POS: mn
कृपावती
Lemma: कृपावत्
POS: adj
Canonical CTS URN Reference
Kumārasambhavam, KS 5.26. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 5.25) All Verses in Chapter 5 Next Verse (KS 5.27) →