Skip to main content
Search
Ch. 5 KS 5.21
Full Chapter
KS • Chapter 5: Canto 5

KS 5.21

Canonical Ref: KS 5.21
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
तथाभितप्तं सवितुर्गभस्तिभिर्मुखं तदीयं कमलश्रियं दधौ । अपाङ्गयोः केवलमस्य दीर्घयोः शनैः-शनैः श्यामिकया कृतं पदम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तथेति ॥ सवितुः सूर्यस्य गभस्तिभिः किरणैस्तथा पूवोक्तप्रकारेणातितप्तं संतप्तं तस्या इदं तदीयं मुखं कमलश्रियं कमलस्य शोभां दधौ प्राप । यथा रवितापात्कमलं न म्लायति प्रत्युत विकसति तथा तदीयं मुखमासीदिति भावः । किन्त्वस्य मुखस्य दीर्धयोरपाङ्गयोः केवलं नेत्रान्तयोरेव शनैर्मन्दंमन्दं श्यामिकया कालिम्ना पदं स्थानं कृतम् । तयोः सौकुमार्यादित्यर्थः अन्वयः: सवितुः गभस्तिभिः तथा अतितप्तं तदीयं मुखं कमलश्रियं दधौ, अस्य दीर्घयोः अपाङ्गयोः शनैः शनैः श्यामिकया पदं कृतम् ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
तथाभितप्तं
Lemma: तथा
POS: ind
तथाभितप्तं
Lemma: अभितप्
POS: 4. Ā.
सवितुर्
Lemma: सवितृ
POS: m
गभस्तिभिर्
Lemma: गभस्ति
POS: m
मुखं
Lemma: मुख
POS: n
तदीयं
Lemma: तदीय
POS: adj
कमलश्रियं
Lemma: कमल
POS: mn
कमलश्रियं
Lemma: श्री
POS: f
दधौ
Lemma: धा
POS: 1. P. • Verb: दधौ
अपाङ्गयोः
Lemma: अपाङ्ग
POS: m
केवलम्
Lemma: केवलम्
POS: ind
अस्य
Lemma: इदम्
POS: pron
दीर्घयोः
Lemma: दीर्घ
POS: adj
शनैः
Lemma: शनैस्
POS: ind
शनैः
Lemma: शनैस्
POS: ind
श्यामिकया
Lemma: श्यामिका
POS: f
कृतं
Lemma: कृ
POS: 2. Ā.
पदम्
Lemma: पद
POS: mn
Canonical CTS URN Reference
Kumārasambhavam, KS 5.21. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 5.20) All Verses in Chapter 5 Next Verse (KS 5.22) →