Skip to main content
Search
Ch. 5 KS 5.15
Full Chapter
KS • Chapter 5: Canto 5

KS 5.15

Canonical Ref: KS 5.15
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
अरण्यबीजाञ्जलिदानलालितास्तथा च तस्यां हरिणा विशश्वसुः । यथा तदीयैर्नयनैः कुतूहलात्पुरः सखीनाममिमीत लोचने ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): अरण्येति ॥ अरण्यबीजानां नीवारादीनामञ्जलयस्तेषां दानेन लालिता हरिणाश्च तस्यां देव्यां तथा विशश्वसुर्विस्रम्भं जग्मुः `समौ विस्रम्भविश्वासौ` इत्यमरः (अ.को.2|8|23) । यथा कुतूहलादौत्सुक्यात्तदीयैर्हरिण संबन्धिभिर्नयनैर्नेत्रैः । करणैः । स्वकीये लोचने सखीनां पुरः पुरतः अनेन तेषां संबन्धसहत्वमुक्तम् । अमिमीत । अक्षिपरिमाणतारतम्यज्ञानाय मानं चकारेत्यर्थः । केचित्तु सा पार्वती तदीयैर्नेत्रैः कुतूहलात्पुरोऽग्रे वर्तमानानां सखीनां लोचने अमिमीत व्रतस्थत्वात्मन इत्याहुः । `माङ् माने` इत्यस्माद्धातोर्लङ् । इयमेव खलु विश्वासस्य परा काष्ठा यदक्षिपीडनेऽपि न क्षुभ्यन्तीति भावः अन्वयः: अरण्यबीजाऽञ्जलिदानलालिता हरिणाश्च तस्यां तथा विशश्वसुः, यथा कुतूहलात् तदीयैः नयनैः लोचने सखीनां पुरः अमिमीत ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
अरण्यबीजाञ्जलिदानलालितास्
Lemma: अरण्य
POS: n
अरण्यबीजाञ्जलिदानलालितास्
Lemma: बीज
POS: mn
अरण्यबीजाञ्जलिदानलालितास्
Lemma: अञ्जलि
POS: m
अरण्यबीजाञ्जलिदानलालितास्
Lemma: दान
POS: n
अरण्यबीजाञ्जलिदानलालितास्
Lemma: लालय्
POS: 10. P.
तथा
Lemma: तथा
POS: ind
च
Lemma: च
POS: ind
तस्यां
Lemma: तद्
POS: pron
हरिणा
Lemma: हरिण
POS: m
विशश्वसुः
Lemma: विश्वस्
POS: 1. Ā. • Verb: विशश्वसुः
यथा
Lemma: यथा
POS: ind
तदीयैर्
Lemma: तदीय
POS: adj
नयनैः
Lemma: नयन
POS: n
कुतूहलात्
Lemma: कुतूहल
POS: n
पुरः
Lemma: पुरस्
POS: ind
सखीनाम्
Lemma: सखी
POS: f
अमिमीत
Lemma: मा
POS: 4. P. • Verb: अमिमीत
लोचने
Lemma: लोचन
POS: n
Canonical CTS URN Reference
Kumārasambhavam, KS 5.15. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 5.14) All Verses in Chapter 5 Next Verse (KS 5.16) →