Skip to main content
Search
Ch. 1 KS 1.25
Full Chapter
KS • Chapter 1: Canto 1

KS 1.25

Canonical Ref: KS 1.25
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव लेखा । पुपोष लावण्यमयान्विशेषाञ्ज्योत्स्नान्तराणीव कलान्तराणि ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): दिन इति ॥ लब्ध उदयो यया सा लब्धोदया । उत्पन्नेत्यर्थः । अभ्युदितेत्यन्यत्र दिने दिने प्रतिदिनम् । `नित्यवीप्सयोः` (पा.8|1|4) इति वीप्सायां द्विरुक्तिः । परिवर्धमाना । उभयत्र समानमेतत् । सा बाला । चन्द्रमस इयं चान्द्रमसी लेखेव लावण्यमयान्कान्तिविशेषप्रचुरान् । `मुक्ताफलेषु छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥` इति भूपालः । विशेषानवयवान् । `विशेषोऽवयवे व्यक्तौ` इत्युत्पलमालायाम् । ज्योत्स्नायामन्तरमन्तर्धानं येषां तानि ज्योत्स्नान्तराणि ज्योत्स्नायान्तर्हितानि । तन्मयानीति यावत् । अन्याः कलाः कलान्तराणीव सुप्सुपेति समासः । `स्थानात्मीयान्यतादर्थ्यरन्ध्रान्तर्धिषु चान्तरम्` इति शाश्वतः । पुपोषोपचितवती । इयं वाक्योपमेत्याह दण्डी । तल्लक्षणं तु- `वाक्यार्थेनैव वाक्यार्थः काऽपि यद्युपमीयते । एकानेकेव शब्दत्वात् सा तु वाक्योपमा द्विधा ॥` इति अन्वयः: लब्धोदया दिने दिने परिवर्धमाना सा चान्द्रमसी लेख इव लावण्यमयान् विशेषान् ज्योत्स्नान्तराणि कलान्तराणि इव पुपोष ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
दिने
Lemma: दिन
POS: mn
दिने
Lemma: दिन
POS: mn
सा
Lemma: तद्
POS: pron
परिवर्धमाना
Lemma: परिवृध्
POS: 1. Ā.
लब्धोदया
Lemma: लभ्
POS: 1. P.
लब्धोदया
Lemma: उदय
POS: m
चान्द्रमसीव
Lemma: चान्द्रमस
POS: adj
चान्द्रमसीव
Lemma: इव
POS: ind
लेखा
Lemma: लेखा
POS: f
पुपोष
Lemma: पुष्
POS: 2. P. • Verb: पुपोष
लावण्यमयान्
Lemma: लावण्य
POS: n
लावण्यमयान्
Lemma: मय
POS: adj
विशेषाञ्
Lemma: विशेष
POS: m
ज्योत्स्नान्तराणीव
Lemma: ज्योत्स्ना
POS: f
ज्योत्स्नान्तराणीव
Lemma: अन्तर
POS: adj
ज्योत्स्नान्तराणीव
Lemma: इव
POS: ind
कलान्तराणि
Lemma: कला
POS: f
कलान्तराणि
Lemma: अन्तर
POS: n
Canonical CTS URN Reference
Kumārasambhavam, KS 1.25. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 1.24) All Verses in Chapter 1 Next Verse (KS 1.26) →