Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 19 (Kāṇḍa 19) • Sūkta 18

Kāṇḍa 19 Sūkta 18

काण्डम् 19 • सूक्तम् 18

Kāṇḍa 19 Sūkta 18 of the Shaunaka Saṁhitā of Atharvaveda with 10 mantras.

Total: 10 Verses • Citations: AV 19.18.1–10 • 2 Lexicon Terms
सुरक्षा।
१-१० अथर्वा। मन्त्रोक्ताः। १, ८ साम्नी त्रिष्टुप्, २-३ आर्च्यनुष्टुप्, ( ५ सम्राडार्च्यनुष्टुप्) ७, ९-१० (द्विपदाः)
अ॒ग्निं ते वसु॑वन्तमृच्छन्तु ।ये मा॑घा॒यवः॒ प्राच्या॑ दि॒शोऽभि॒दासा॑त्
वा॒युं ते॒३ऽन्तरि॑क्षवन्तमृछन्तु । ये मा॑घा॒यवः॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त्
सोमं॒ ते रु॒द्रव॑न्तमृछन्तु । ये मा॑घा॒यवो॒ दक्षि॑णाया दि॒शोऽभि॒दासा॑त्
वरु॑णं॒ त आ॑दि॒त्यव॑न्तमृच्छन्तु ।ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त्
सूर्यं॒ ते द्यावा॑पृथि॒वीव॑न्तमृच्छन्तु । ये मा॑घा॒यव॑ प्र॒तीच्याः॑ दि॒शोऽभि॒दासा॑त्
अ॒पस्त ओष॑धीमतीरृछन्तु । ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त्
वि॒श्वक॑र्माणं॒ ते स॑प्तऋ॒षिव॑न्तमृच्छन्तु । ये मा॑घा॒यव॒ उदी॑च्या दि॒शोऽभि॒दासा॑त्
इन्द्रं॒ ते म॒रुत्व॑न्तमृच्छन्तु । ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त्
प्र॒जाप॑तिं॒ ते प्र॒जन॑नवन्तमृच्छन्तु । ये मा॑घा॒यवो॑ ध्रु॒वाया॑ दि॒शोऽभि॒दासा॑त्
बृह॒स्पतिं॒ ते वि॒श्वदे॑ववन्तमृच्छन्तु । ये मा॑घा॒यव॑ ऊ॒र्ध्वाया॑ दि॒शोऽभि॒दासा॑त्
← Previous (Ch. 538) Full Table of Contents Next (Ch. 540) →