Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 18 (Kāṇḍa 18) • Sūkta 4

Kāṇḍa 18 Sūkta 4

काण्डम् 18 • सूक्तम् 4

Kāṇḍa 18 Sūkta 4 of the Shaunaka Saṁhitā of Atharvaveda with 89 mantras.

Total: 89 Verses • Citations: AV 18.4.1–89 • 2 Lexicon Terms • Page 3 of 3 (Verses 29 shown)
अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒यां अ॑धूषत ।
अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ यवि॑ष्ठा ईमहे
आ या॑त पितरः सो॒म्यासो॑ गम्भी॒रैः प॒थिभिः॑ पितृ॒याणैः॑ ।
आयु॑र॒स्मभ्यं॒ दध॑तः प्र॒जां च॑ रा॒यश्च॒ पोषै॑र॒भि नः॑ सचध्वम्
परा॑ यात पितरः सो॒म्यासो॑ गम्भी॒रैः प॒थिभिः॑ पू॒र्याणैः॑ ।
अधा॑ मा॒सि पुन॒रा या॑त नो गृ॒हान् ह॒विरत्तुं॑ सुप्र॒जसः॑ सु॒वीराः॑
यद् वो अ॒ग्निरज॑हा॒देक॒मङ्गं॑ पितृलो॒कं ग॒मयं॑ जा॒तवे॑दाः ।
तद् व॑ ए॒तत् पुन॒रा प्या॑ययामि सा॒ङ्गाः स्व॒र्गे पि॒तरो॑ मादयध्वम्
अभू॑द् दू॒तः प्रहि॑तो जा॒तवे॑दाः सा॒यं न्यह्न॑ उप॒वन्द्यो॒ नृभिः॑ ।
प्रादाः॑ पि॒तृभ्यः॑ स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वींषि॑
अ॒सौ हा इ॒ह ते॒ मनः॒ ककु॑त्सलमिव जा॒मयः॑ ।
अ॒भ्येऽनं भूम ऊर्णुहि
शुम्भ॑न्तां लो॒काः पि॑तृ॒षद॑नाः पितृ॒षद॑ने त्वा लो॒क आ सा॑दयामि
ये॒३स्माकं॑ पि॒तर॒स्तेषां॑ ब॒र्हिर॑सि
उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय ।
अधा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम
प्रास्मत् पाशा॑न् वरुण मुञ्च॒ सर्वा॒न् यैः स॑मा॒मे ब॒ध्यते॒ यैर्व्या॒मे।
अधा॑ जीवेम श॒रदं॑ श॒तानि॒ त्वया॑ राजन् गुपि॒ता रक्ष॑माणाः
अ॒ग्नये॑ कव्य॒वाह॑नाय स्व॒धा नमः॑
सोमा॑य पि॒तृम॑ते स्व॒धा नमः॑
पि॒तृभ्यः॒ सोम॑वद्भ्यः स्व॒धा नमः॑
य॒माय॑ पि॒तृम॑ते स्व॒धा नमः॑
ए॒तत् ते॑ प्रततामह स्व॒धा ये च॒ त्वामनु॑
ए॒त् ते॑ ततामह स्व॒धा ये च॒ त्वामनु॑
स्व॒धा पि॒तृभ्यः॑ पृथिवि॒षद्भ्यः॑
स्व॒धा पि॒तृभ्यो॑ अन्तरिक्ष॒सद्भ्यः॑
स्व॒धा पि॒तृभ्यो॑ दिवि॒षद्भ्यः॑
नमो॑ वः पितर ऊ॒र्जे नमो॑ वः पितरो॒ रसा॑य
नमो॑ वः पितरो॒ भामा॑य॒ नमो॑ वः पितरो म॒न्यवे॑
नमो॑ वः पितरो॒ यद् घोरं तस्मै॒ नमो॑ वः पितरो॒ यत् क्रू॒रं तस्मै॑
नमो॑ वः पितरो॒ यच्छि॒वं तस्मै॒ नमो॑ वः पितरो॒ यत् स्यो॒नं तस्मै॑
नमो॑ वः पितरः स्व॒धा वः॑ पितरः
येऽत्र॑ पि॒तरः॑ पि॒तरो॒ येऽत्र॑ यू॒यं स्थ यु॒ष्मांस्तेऽनु॑ यू॒यं तेषां॒ श्रेष्ठा॑ भूयास्थ
य इ॒ह पि॒तरो॑ जी॒वा इ॒ह व॒यं स्मः॑ ।
अ॒स्मांस्तेऽनु॑ व॒यं तेषां॒ श्रेष्ठा॑ भूयास्म
आ त्वा॑ग्न इधीमहि द्यु॒मन्तं॑ देवा॒जर॑म्।
यद् घ॒ सा ते॒ पनी॑यसी स॒मिद् दी॒दय॑ति॒ द्यवि॑ ।
इषं॑ स्तो॒तृभ्य॒ आ भ॑र
च॒न्द्रमा॑ अ॒प्स्व॑१न्तरा सु॑प॒र्णो धा॑वते दि॒वि।
न वो॑ हिरण्यनेमयः प॒दं वि॑न्दन्ति विद्युतो वि॒त्तं मे॑ अ॒स्य रो॑दसी
← Previous (Ch. 520) Full Table of Contents Next (Ch. 522) →