Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 18 (Kāṇḍa 18) • Sūkta 4

Kāṇḍa 18 Sūkta 4

काण्डम् 18 • सूक्तम् 4

Kāṇḍa 18 Sūkta 4 of the Shaunaka Saṁhitā of Atharvaveda with 89 mantras.

Total: 89 Verses • Citations: AV 18.4.1–89 • 2 Lexicon Terms • Page 2 of 3 (Verses 30 shown)
ए॒तत् ते॑ दे॒वः स॑वि॒ता वासो॑ ददाति॒ भर्त॑वे ।
तत् त्वं य॒मस्य॒ राज्ये॒ वसा॑नस्ता॒र्प्यंऽ चर
धा॒ना धे॒नुर॑भवद् व॒त्सो अ॑स्यास्ति॒लोऽभवत्।
तां वै य॒मस्य॒ राज्ये॒ अक्षि॑ता॒मुप॑ जीवति
ए॒तास्ते॑ असौ धे॒नवः॑ काम॒दुघा॑ भवन्तु ।
एनीः॒ श्येनीः॒ सरू॑पा॒ विरू॑पास्ति॒लव॑त्सा॒ उप॑ तिष्ठन्तु॒ त्वात्र॑
एनी॒र्धा॒ना हरि॑णीः॒ श्येनी॑रस्य कृ॒ष्णा धा॒ना रोहि॑णीर्धे॒नव॑स्ते ।
ति॒लव॑त्सा॒ ऊर्ज॑म॒स्मै दुहा॑ना वि॒श्वाहा॑ सन्त्वनप॒स्फुर॑न्तीः
वै॒श्वा॒न॒रे ह॒विरि॒दं जु॑होमि साह॒स्रं श॒तधा॑र॒मुत्स॑म्।
स बि॑भर्ति पि॒तरं॑ पिताम॒हान् प्र॑पिताम॒हान् बि॑भर्ति॒ पिन्व॑मानः
स॒हस्र॑धारं श॒तधा॑र॒मुत्स॒मक्षि॑तं व्य॒च्यमा॑नं सलि॒लस्य॑ पृ॒ष्ठे।
ऊर्जं॒ दुहा॑नमनप॒स्फुर॑न्त॒मुपा॑सते पि॒तरः॑ स्व॒धाभिः॑
इ॒दं कसा॑म्बु॒ चय॑नेन चि॒तं तत् स॑जाता॒ अव॑ पश्य॒तेत॑ ।
मर्त्यो॒ऽयम॑मृत॒त्वमे॑ति॒ तस्मै॑ गृ॒हान् कृ॑णुत याव॒त्सब॑न्धु
इ॒हैवैधि॑ धन॒सनि॑रि॒हचि॑त्त इ॒हक्र॑तुः ।
इ॒हैधि॑ वी॒र्यऽवत्तरो वयो॒धा अप॑राहतः
पु॒त्रं पौत्र॑मभित॒र्पय॑न्ती॒रापो॒ मधु॑मतीरि॒माः ।
स्व॒धां पि॒तृभ्यो॑ अ॒मृतं॒ दुहा॑ना॒ आपो॑ दे॒वीरु॒भयां॑स्तर्पयन्तु
आपो॑ अ॒ग्निं प्र हि॑णुत पि॒तॄंरुपे॒मं य॒ज्ञं पि॒तरो॑ मे जुषन्ताम्।
आसी॑ना॒मूर्ज॒मुप॒ ये सच॑न्ते॒ ते नो॑ र॒यिं सर्व॑वीरं॒ नि य॑च्छान्
समि॑न्धते॒ अम॑र्त्यं हव्य॒वाहं॑ घृत॒प्रिय॑म्।
स वे॑द॒ निहि॑तान्नि॒धीन् पि॒तॄ॒न् प॑रा॒वतो॑ ग॒तान्
यं ते॑ म॒न्थं यमो॑द॒नं यन्मां॒सं नि॑पृ॒णामि॑ ते ।
ते ते॑ सन्तु स्व॒धाव॑न्तो॒ मधु॑मन्तो घृत॒श्चुतः॑
यास्ते॑ धा॒ना अ॑नुकि॒रामि॑ ति॒लमि॑श्राः स्व॒धाव॑तीः ।
तास्ते॑ सन्तू॒द्भ्वीः प्र॒भ्वीस्तास्ते॑ य॒मो राजानु॑ मन्यताम्
इ॒दं पूर्व॒मप॑रं नि॒यानं॒ येना॑ ते॒ पूर्वे॑ पि॒तरः॒ परे॑ताः ।
पु॒रो॒ग॒वा ये अ॑भि॒शाचो॑ अस्य॒ ते त्वा॑ वहन्ति सु॒कृता॑मु लो॒कम्
सर॑स्वतीं देव॒यन्तो॑ हवन्ते॒ सर॑स्वतीमध्व॒रे ता॒यमा॑ने ।
सर॑स्वतीं सु॒कृतो॑ हवन्ते॒ सर॑स्वती दा॒शुषे॑ वार्यं॑ दात्
सर॑स्वतीं पि॒तरो॑ हवन्ते दक्षि॒णा य॒ज्ञम॑भि॒नक्ष॑माणाः ।
आ॒सद्या॒स्मिन् ब॒र्हिषि॑ मादयध्वमनमी॒वा इष॒ आ धे॑ह्य॒स्मे
सर॑स्वति॒ या स॒रथं॑ य॒याथो॒क्थैः स्व॒धाभि॑र्देवि पि॒तृभि॒र्मद॑न्ती ।
स॒ह॒स्रा॒र्घमि॒डो अत्र॑ भा॒गं रा॒यस्पोषं॒ यज॑मानाय धेहि
पृ॒थि॒वीं त्वा॑ पृथि॒व्यामा वे॑शयामि दे॒वो नो॑ धा॒ता प्र ति॑रा॒त्यायुः॑ ।
परा॑परैता वसु॒विद् वो अ॒स्त्वधा॑ मृ॒ताः पि॒तृषु॒ सं भ॑वन्तु
आ प्र च्य॑वेथा॒मप॒ तन्मृ॑जेथां॒ यद् वा॑मभि॒भा अत्रो॒चुः ।
अ॒स्मादेत॑म॒घ्न्यौ तद् वशी॑यो दा॒तुः पि॒तृष्वि॒हभो॑जनौ॒ मम॑
एयम॑ग॒न् दक्षि॑णा भद्र॒तो नो॑ अ॒नेन॑ द॒त्ता सु॒दुघा॑ वयो॒धाः ।
यौव॑ने जी॒वानु॑प॒पृञ्च॑ती ज॒रा पि॒तृभ्य॑ उप॒संप॑राणयादि॒मान्
इ॒दं पि॒तृभ्यः॒ प्र भ॑रामि ब॒र्हिर्जी॒वं दे॒वेभ्य॒ उत्त॑रं स्तृणामि ।
तदा रो॑ह पुरुष॒ मेध्यो॒ भव॒न् प्रति॑ त्वा जानन्तु पि॒तरः॒ परे॑तम्
एदं ब॒र्हिर॑सदो॒ मेध्यो॑ऽभूः॒ प्रति॑ त्वा जानन्तु पि॒तरः॒ परे॑तम्।
य॒था॒प॒रु त॒न्वं॑१ सं भ॑रस्व॒ गात्रा॑णि ते॒ ब्रह्म॑णा कल्पयामि
प॒र्णो राजा॑पि॒धानं॑ चरू॒णामू॒र्जो बलं॒ सह॒ ओजो॑ न॒ आग॑न्।
आयु॑र्जी॒वेभ्यो॒ विद॑धद् दीर्घायु॒त्वाय॑ श॒तशा॑रदाय
ऊ॒र्जो भा॒गो य इ॒मं ज॒जानाश्मान्ना॑ना॒माधि॑पत्यं ज॒गाम॑ ।
तम॑र्चत वि॒श्वमि॑त्रा ह॒विर्भिः॒ स नो॑ य॒मः प्र॑त॒रं जी॒वसे॑ धात्
यथा॑ य॒माय॑ ह॒र्म्यमव॑प॒न् पञ्च॑ मान॒वाः ।
ए॒वा व॑पामि ह॒र्म्यं यथा॑ मे॒ भूर॒योऽस॑त
इ॒दं हिर॑ण्यं बिभृहि॒ यत् ते॑ पि॒ताबि॑भः पु॒रा।
स्व॒र्गं य॒तः पि॒तुर्हस्तं॒ निर्मृ॑ड्ढि॒ दक्षि॑णम्
ये च॑ जी॒वा ये च॑ मृ॒ता ये जा॒ता ये च॑ य॒ज्ञियाः॑ ।
तेभ्यो॑ घृ॒तस्य॑ कु॒ल्यैऽतु॒ मधु॑धारा व्युन्द॒ती
वृषा॑ मती॒नां प॑वते विचक्ष॒णः सूरो॒ अह्नां॑ प्र॒तरी॑तो॒षसां॑ दि॒वः ।
प्रा॒णः सिन्धू॑नां क॒लशाँ॑ अचिक्रद॒दिन्द्र॑स्य॒ हार्दि॑मावि॒शन् म॑नी॒षया॑
त्वे॒षस्ते॑ धू॒म ऊ॑र्णोतु दि॒वि षंच्छु॒क्र आत॑तः ।
सूरो॒ न हि द्यु॒ता त्वं कृ॒पा पावक॒ रोच॑से
प्र वा ए॒तीन्दु॒रिन्द्र॑स्य॒ निष्कृ॑तिं॒ सखा॒ सख्यु॒र्न प्र मि॑नाति संगि॒रः ।
मर्य॑ इव॒ योषाः॒ सम॑र्षसे॒ सोमः॑ क॒लशे॑ श॒तया॑मना प॒था
← Previous (Ch. 520) Full Table of Contents Next (Ch. 522) →