इ॒हेमे वी॒रा ब॒हवो॑ भवन्तु॒ गोम॒दश्व॑व॒न्मय्य॑स्तु पु॒ष्टम्
इ॒हेमे वी॒रा ब॒हवो॑ भवन्तु॒ गोम॒दश्व॑व॒न्मय्य॑स्तु पु॒ष्टम्
इ॒मान् र॑क्षतु॒ पुरु॑षा॒ना ज॑रि॒म्णो मो ष्वेऽषा॒मस॑वो य॒मं गुः॑
तम॑र्चत वि॒श्वमि॑त्रा ह॒विर्भिः॒ स नो॑ य॒मः प्र॑त॒रं जी॒वसे॑ धात्
सोम॑पाः॒ सोम॑पायिन इ॒दं वः॑ क्रियते ह॒विरग॑न्म॒ ज्वोति॑रुत्त॒मम्
दि॒वश्चि॒दन्ता॑दुप॒मामुदा॑नड॒पामु॒पस्थे॑ महि॒षो व॑वर्ध
हिर॑ण्यपक्षं॒ वरु॑णस्य दू॒तं य॒मस्य॒ यो नौ॑ शकु॒नं भु॑र॒ण्युम्
शिक्षा॑ णो अ॒स्मिन् पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑रशीमहि
ते ते॑ सन्तु स्व॒धाव॑न्तो॒ मधु॑मन्तो घृत॒श्चुतः॑
तास्ते॑ सन्तु वि॒भ्वीः प्र॒भ्वीस्तास्ते॑ य॒मो राजानु॑ मन्यताम्
यथा॑ य॒मस्य॒ साद॑न॒ आसा॑तै वि॒दथा॒ वद॑न्
शरी॑रमस्य॒ सं द॒हाथै॑नं धेहि सु॒कृता॑मु लो॒के
तेभ्यो॑ घृ॒तस्य॑ कु॒ल्यैऽतु श॒तधा॑रा व्युन्द॒ती
अ॒भि प्रेहि॑ मध्य॒तो माप॑ हास्थाः पितॄ॒नां लो॒कं प्र॑थ॒मो यो अत्र॑