Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 13 (Kāṇḍa 13) • Sūkta 5

Kāṇḍa 13 Sūkta 5

काण्डम् 13 • सूक्तम् 5

Kāṇḍa 13 Sūkta 5 of the Shaunaka Saṁhitā of Atharvaveda with 8 mantras.

Total: 8 Verses • Citations: AV 13.5.1–8 • 2 Lexicon Terms
अध्यात्मम्।
१४ भुरिक्साम्नी त्रिष्टुप्, १५ आसुरी पङ्क्तिः, १६, १९ प्राजापत्याऽनुष्टुप्, १७-१८ आसुरी गायत्री।
की॒र्तिश्च॒ यश॒श्चाम्भ॑श्च॒ नभ॑श्च ब्राह्मणवर्च॒सं चान्नं॑ चा॒न्नाद्यं॑ च
य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑
न द्वि॒तीयो॒ न तृ॒तीय॑श्चतु॒र्थो नाप्यु॑च्यते। य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑
न प॑ञ्च॒मो न षष्ठः स॑प्त॒मो नाप्यु॑च्यते। य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑
नाष्ट॒मो न न॑व॒मो द॑श॒मो नाप्यु॑च्यते । य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑
स सर्व॑स्मै॒ वि प॑श्यति॒ यच्च॑ प्रा॒णति॒ यच्च॒ न ।
य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑
तमि॒दं निग॑तं॒ सहः॒ स ए॒ष एक॑ एक॒वृदेक॑ ए॒व।
य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑
सर्वे॑ अस्मिन् दे॒वा ए॑क॒वृतो॑ भवन्ति । य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑
← Previous (Ch. 482) Full Table of Contents Next (Ch. 484) →