Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 13 (Kāṇḍa 13) • Sūkta 1

Kāṇḍa 13 Sūkta 1

काण्डम् 13 • सूक्तम् 1

Kāṇḍa 13 Sūkta 1 of the Shaunaka Saṁhitā of Atharvaveda with 60 mantras.

Total: 60 Verses • Citations: AV 13.1.1–60 • 2 Lexicon Terms • Page 2 of 2 (Verses 30 shown)
अग्ने॑ स॒पत्ना॒नध॑रान् पादया॒स्मद् व्य॒थया॑ सजा॒तमु॒त्पिपा॑नं बृहस्पते ।
इन्द्रा॑ग्नी॒ मित्रा॑वरुणा॒वध॑रे पद्यन्ता॒मप्र॑तिमन्यूयमानाः
उ॒द्यंस्त्वं दे॑व सूर्य स॒पत्ना॒नव॑ मे जहि ।
अवै॑ना॒नश्म॑ना जहि॒ ते य॑न्त्वध॒मं तमः॑
व॒त्सो वि॒राजो॑ वृष॒भो म॑ती॒नामा रु॑रोह शु॒क्रपृ॑ष्ठो॒ऽन्तरि॑क्षम्।
घृ॒तेना॒र्कम॒भ्यऽर्चन्ति व॒त्सं ब्रह्म॒ सन्तं॒ ब्रह्म॑णा वर्धयन्ति
दिवं॑ च॒ रो॑ह पृथि॒वीं च॑ रोह रा॒ष्ट्रं च॒ रोह॒ द्रवि॑णं च रोह ।
प्र॒जां च॒ रोहा॒मृतं॑ च रोह॒ रोहि॑तेन त॒न्वं॑१ सं स्पृ॑शस्व
ये दे॒वा रा॑ष्ट्रभृतो॒ऽभितो॒ यन्ति॒ सूर्य॑म्।
तैष्टे॒ रोहि॑तः संविदा॒नो रा॒ष्ट्रं द॑धातु सुमन॒स्यमा॑नः
उत् त्वा॑ य॒ज्ञा ब्रह्म॑पूता वहन्त्यध्व॒गतो॒ हर॑यस्त्वा वहन्ति ।
ति॒रः स॑मु॒द्रमति॑ रोचसेऽर्ण॒वम्
रोहि॑ते॒ द्यावा॑पृथि॒वी अधि॑ श्रि॒ते व॑सु॒जिति॑ गो॒जिति॑ संधना॒जिति॑ ।
स॒हस्रं॒ यस्य॒ जनि॑मानि स॒प्त च॑ वो॒चेयं॑ ते॒ नाभिं॒ भुव॑न॒स्याधि॑ म॒ज्मनि॑
य॒शा या॑सि प्र॒दिशो॑ दिश॑श्च य॒शाः प॑शू॒नामु॒त च॑र्षणी॒नाम्।
य॒शाः पृ॑थि॒व्या अदि॑त्या उ॒पस्थे॒ऽहं भू॑यासं सवि॒तेव॒ चारुः॑
अ॒मुत्र॒ सन्नि॒ह वे॑त्थे॒तः संस्तानि॑ पश्यसि ।
इ॒तः प॑श्यन्ति रोच॒नं दि॒वि सूर्यं॑ विप॒श्चित॑म्
दे॒वो दे॒वान् म॑र्चयस्य॒न्तश्च॑रस्यर्ण॒वे।
स॒मा॒नम॒ग्निमि॑न्धते॒ तं वि॑दुः क॒वयः॒ परे॑
अ॒वः परे॑ण प॒र ए॒नाव॑रेण प॒दा व॒त्सं बिब्र॑ती॒ गौरुद॑स्थात्।
सा क॒द्रीची॒ कं स्वि॒दर्धं॒ परा॑गा॒त् क्वऽस्वित् सूते न॒हि यू॒थे अ॒स्मिन्
एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पद्य॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ ।
स॒हस्रा॑क्षरा॒ भुव॑नस्य प॒ङ्क्तिस्तस्याः॑ समु॒द्रा अधि॒ वि क्ष॑रन्ति
आ॒रोह॒न् द्याम॒मृतः॒ प्राव॑ मे॒ वचः॑ ।
उत् त्वा॑ य॒ज्ञा ब्रह्म॑पूता वहन्त्यध्व॒गतो॒ हर॑यस्त्वा वहन्ति
वेद॒ तत् ते अमर्त्य॒ यत् त॑ आ॒क्रम॑णं दि॒वि।
यत् ते॑ स॒धस्थं॑ पर॒मे व्योऽमन्
सूर्यो॒ द्यां सूर्यः॑ पृथि॒वीं सूर्य॒ आपोऽति॑ पश्यति ।
सूर्यो॑ भू॒तस्यैकं॒ चक्षु॒रा रु॑रोह॒ दिवं॑ म॒हीम्
उ॒र्वीरा॑सन् परि॒धयो॒ वेदि॒र्भूमि॑रकल्पत ।
तत्रै॒ताव॒ग्नी आध॑त्त हि॒मं घ्रं॒सं च॒ रोहि॑तः
हि॒मं घ्रं॒सं चा॒धाय॒ यूपा॑न् कृ॒त्वा पर्व॑तान्।
व॒र्षाज्या॑व॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑
स्व॒र्विदो॒ रोहि॑तस्य॒ ब्रह्म॑णा॒ग्निः समि॑ध्यते ।
तस्मा॑द् घ्रं॒सस्तस्मा॑द्धि॒मस्तस्मा॑द् य॒ज्ञोऽजायत
ब्रह्म॑णा॒ग्नी वा॑वृधा॒नौ ब्रह्म॑वृद्धौ॒ ब्रह्मा॑हुतौ ।
ब्रह्मे॑द्धाव॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑
स॒त्ये अ॒न्यः स॒माहि॑तो॒ऽप्स्व॑१न्यः समि॑ध्यते ।
ब्रह्मे॑द्धाव॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑
यं वातः॑ परि॒ शुम्भ॑ति॒ यं वेन्द्रो॒ ब्रह्म॑ण॒स्पतिः॑ ।
ब्रह्मे॑द्धाव॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑
वेदिं॒ भूमिं॑ कल्पयि॒त्वा दिवं॑ कृ॒त्वा दक्षि॑णाम्।
घ्रं॒सं तद॒ग्निं कृ॒त्वा च॒कार॒ विश्व॑मात्म॒न्वद् व॒र्षेणाज्ये॑न॒ रोहि॑तः
व॒र्षमाज्यं॑ घ्रं॒सो अ॒ग्निर्वेदि॒र्भूमि॑रकल्पत ।
तत्रै॒वान् पर्व॑तान॒ग्निर्गी॒र्भिरू॒र्ध्वाँ अ॑कल्पयत्
गी॒र्भिरू॒र्ध्वान् क॑ल्पयि॒त्वा रोहि॑तो॒ भूमि॑मब्रवीत्।
त्वयी॒दं सर्वं॑ जायतां॒ यद् भू॒तं यच्च॑ भा॒व्यऽम्
स य॒ज्ञः प्र॑थ॒मो भू॒तो भव्यो॑ अजायत ।
तस्मा॑द्ध जज्ञ इ॒दं सर्वं॒ यत् किं चे॒दं वि॒रोच॑ते॒ रोहि॑तेन॒ ऋषि॒णाभृ॑तम्
यश्च॒ गां प॒दा स्फु॒रति॑ प्र॒त्यङ् सूर्यं॑ च॒ मेह॑ति ।
तस्य॑ वृश्चामि ते॒ मूलं॒ न च्छा॒यां क॑र॒वोऽप॑रम्
यो मा॑भिच्छा॒यम॒त्येषि॒ मां चा॒ग्निं चा॑न्त॒रा।
तस्य॑ वृश्चामि ते॒ मूलं॒ न च्छा॒यां क॑र॒वोऽप॑रम्
यो अ॒द्य दे॑व सूर्य॒ त्वां च॒ मां चा॑न्त॒राय॑ति ।
दु॒ष्वप्न्यं॒ तस्मिं॒छम॑लं दुरि॒तानि॑ च मृज्महे
मा प्र गा॑म प॒थो व॒यं मा य॒ज्ञादि॑न्द्र सो॒मिनः॑ ।
मान्त स्थु॑र्नो॒ अरा॑तयः
यो य॒ज्ञस्य॑ प्र॒साध॑न॒स्तन्तु॑र्दे॒वेष्वात॑तः ।
तमाहु॑तमशीमहि
← Previous (Ch. 478) Full Table of Contents Next (Ch. 480) →