१-६० यमः। स्वर्गः, ओदनः, अग्निः। त्रिष्टुप्, १, ४२-४३, ४७ भुरिक्, ८, १२, २१-२२, २४ जगती,
१३, १७ स्वराडार्षी पङ्क्तिः, ३४ विराड् गर्भा, ३९ अनुष्टुब्गर्भा, ४४ परा बृहती,
५५-६० त्र्यवसाना सप्तपदा शङ्कुमत्यतिजागतशाक्वरातिशाक्वरधा-र्त्यगर्भातिधृतिः (५५, ५७-६० कृतिः),।
पुमा॑न् पुं॒सोऽधि॑ तिष्ठ॒ चर्मे॑हि॒ तत्र॑ ह्वयस्व यत॒मा प्रि॒या ते ।
याव॑न्ता॒वग्रे॑ प्रथ॒मं स॑मे॒यथु॒स्तद् वां॒ वयो॑ यम॒राज्ये॑ समा॒नम्