इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सं स्पृ॑शन्ताम्।
अ॒न॒श्रवो॑ अनमी॒वाः सु॒रत्ना॒ आ रो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे॑
व्याक॑रोमि ह॒विषा॒हमे॒तौ तौ ब्रह्म॑णा॒ व्य॑१हं क॑ल्पयामि ।
स्व॒धां पि॒तृभ्यो॑ अ॒जरां॑ कृ॒णोमि॑ दी॒र्घेणायु॑षा॒ समि॒मान्त्सृ॑जामि
यो नो॑ अ॒ग्निः पि॑तरो हृ॒त्स्व॑१न्तरा॑वि॒वेशा॒मृतो॒ मर्त्ये॑षु ।
मय्य॒हं तं परि॑ गृह्णामि दे॒वं मा सो अ॒स्मान् द्वि॑क्षत॒ मा व॒यं तम्
अ॒पा॒वृत्य॒ गार्ह॑पत्यात् क्र॒व्यादा॒ प्रेत॑ दक्षि॒णा।
प्रि॒यं पि॒तृभ्य॑ आ॒त्मने॑ ब्र॒ह्मभ्यः॑ कृणुता प्रि॒यम्
द्वि॒भा॒ग॒ध॒नमा॒दाय॒ प्र क्षि॑णा॒त्यव॑र्त्या ।
अ॒ग्निः पु॒त्रस्य॑ ज्ये॒ष्ठस्य॒ यः क्र॒व्यादनि॑राहितः
यत् कृ॒षते॒ यद् व॑नु॒ते यच्च॑ व॒स्नेन॑ वि॒न्दते॑ ।
सर्वं॒ मर्त्य॑स्य॒ तन्नास्ति॑ क्र॒व्याच्चेदनि॑राहितः
अ॒य॒ज्ञि॒यो ह॒तव॑र्चा भवति॒ नैने॑न ह॒विरत्त॑वे ।
छि॒नत्ति॑ कृ॒ष्या गोर्धना॒द् यं क्र॒व्याद॑नु॒वर्त॑ते
मुहु॒र्गृध्यैः॒ प्र व॑द॒त्यार्तिं मर्त्यो॒ नीत्य॑ ।
क्र॒व्याद् यान॒ग्निर॑न्ति॒काद॑नुवि॒द्वान् वि॒ताव॑ति
ग्राह्या॑ गृ॒हाः सं सृ॑ज्यन्ते स्त्रि॒या यन्म्रि॒यते॒ पतिः॑ ।
ब्र॒ह्मैव वि॒द्वाने॒ष्यो॒३ यः क्र॒व्यादं॑ निरा॒दध॑त्
यद् रि॒प्रं शम॑लं चकृ॒म यच्च॑ दुष्कृ॒तम्।
आपो॑ मा॒ तस्मा॑च्छुम्भन्त्व॒ग्नेः संक॑सुकाच्च॒ यत्
ता अ॑ध॒रादुदी॑ची॒राव॑वृत्रन् प्रजान॒तीः प॒थिभि॑र्देव॒यानैः॑ ।
पर्व॑तस्य वृष॒भस्याधि॑ पृ॒ष्ठे नवा॑श्चरन्ति स॒रितः॑ पुरा॒णीः
अग्ने॑ अक्रव्या॒न्निः क्र॒व्यादं॑ नु॒दा दे॑व॒यज॑नं वह
इ॒मं क्र॒व्यादा वि॑वेशा॒यं क्र॒व्याद॒मन्व॑गात्।
व्या॒ग्रौ कृ॒त्वा ना॑ना॒नं तं ह॑रामि शिवाप॒रम्
अ॒न्त॒र्धिर्दे॒वानां॑ परि॒धिर्म॑नु॒ष्याऽणाम॒ग्निर्गार्ह॑पत्य उ॒भया॑नन्त॒रा श्रि॒तः
जी॒वाना॒मायुः॒ प्र ति॑र॒ त्वम॑ग्ने पितॄ॒णां लो॒कमपि॑ गच्छन्तु॒ ये मृ॒ताः ।
सु॒गा॒र्ह॒प॒त्यो वि॒तप॒न्नरा॑तिमुषामु॑षां॒ श्रेय॑सीं धेह्य॒स्मै
सर्वा॑नग्ने॒ सह॑मानः स॒पत्ना॒नैषा॒मूर्जं॑ र॒यिम॒स्मासु॑ धेहि
इ॒ममिन्द्रं॒ वह्निं॒ पप्रि॑म॒न्वार॑भध्वं॒ स वो॒ निर्व॑क्षद् दुरि॒ताद॑व॒द्यात्।
तेनाप॑ हत॒ शरु॑मा॒पत॑न्तं॒ तेन॑ रु॒द्रस्य॒ परि॑ पाता॒स्ताम्
अ॒न॒ड्वाहं॑ प्ल॒वम॒न्वार॑भध्वं॒ स वो॒ निर्व॑क्षद् दुरि॒ताद॑व॒द्यात्।
आ रो॑हत सवि॒तुर्नाव॑मे॒तां ष॒ड्भिरु॒र्वीभि॒रम॑तिं तरेम
अ॒हो॒रा॒त्रे अन्वे॑षि॒ बिभ्र॑त् क्षे॒म्यस्तिष्ठ॑न् प्र॒तर॑णः सु॒वीरः॑ ।
अना॑तुरान्त्सु॒मन॑सस्तल्प॒ बिभ्र॒ज्ज्योगे॒व नः॒ पुरु॑षगन्धिरेधि
ते दे॒वेभ्य॒ आ वृ॑श्चन्ते पा॒पं जी॑वन्ति सर्व॒दा।
क्र॒व्याद् यान॒ग्निर॑न्ति॒कादश्व॑ इवानु॒वप॑ते न॒डम्
येऽश्र॒द्धा ध॑नका॒म्या क्र॒व्यादा॑ स॒मास॑ते ।
ते वा अ॒न्येषां॑ कु॒म्भीं प॒र्याद॑धति सर्व॒दा
प्रेव॑ पिपतिषति॒ मन॑सा॒ मुहु॒रा व॑र्तते॒ पुनः॑ ।
क्र॒व्याद् यान॒ग्निर॑न्ति॒काद॑नुवि॒द्वान् वि॒ताव॑ति
अविः॑ कृ॒ष्णा भा॑ग॒धेयं पशू॒नां सीसं॑ क्रव्या॒दपि॑ च॒न्द्रं त॑ आहुः ।
माषाः॑ पि॒ष्टा भा॑ग॒धेयं॑ ते ह॒व्यम॑रण्या॒न्या गह्व॑रं सचस्व
इ॒षीकां॒ जर॑तीमि॒ष्ट्वा ति॒ल्पिञ्जं॒ दण्ड॑नं न॒डम्।
तमिन्द्र॑ इ॒ध्मं कृ॒त्वा य॒मस्या॒ग्निं नि॒राद॑धौ
प्र॒त्यञ्च॑म॒र्कं प्र॑त्यर्पयि॒त्वा प्र॑वि॒द्वान् पन्थां॒ वि ह्याऽवि॒वेश॑ ।
परा॒मीषा॒मसू॑न् दि॒देश॑ दी॒र्घेणायु॑षा॒ समि॒मान्त्सृ॑जामि