१-४४ अथर्वा। स्कम्भः आत्मा वा। त्रिष्टुप्, १ विराड् जगती, २, ८ भुरिक्, ७, १३ परोष्णिक्,१०, १४, १६, १८-१९ उपरिष्टाद् बृहती, ११-१२, १५, २०, २२, ३९ उपरिष्टाज्ज्योतिर्जगती, १७ त्र्यवसाना षट्-पदा जगती, २१ बृहतीगर्भानुष्टुप्, २३-३०, ३७, ४० अनुष्टुप् , ३१ मध्येज्योतिर्जगती, ३२, ३४, ३६ उपरिष्टाद्विराड्बृहती, ३३ पराविराडनुष्टुप्, ३५ चतुष्पदा जगती, ३८, ४२-४३ त्रिष्टुप्, ४१ आर्षी त्रिपदा गायत्री, ४४ एका॰ आर्च्यनुष्टुप्।
कस्मि॒न्नङ्गे॒ तपो॑ अ॒स्याधि॑ तिष्ठति॒ कस्मि॒न्नङ्ग॑ ऋ॒तम॒स्याध्याहि॑तम्।
क्वऽ व्र॒तं क्वऽ श्र॒द्धास्य॑ तिष्ठति॒ कस्मि॒न्नङ्गे॑ स॒त्यम॑स्य॒ प्रति॑ष्ठितम्