Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 20 (Kāṇḍa 20) • Sūkta 5

Kāṇḍa 20 Sūkta 5

काण्डम् 20 • सूक्तम् 5

Kāṇḍa 20 Sūkta 5 of the Shaunaka Saṁhitā of Atharvaveda with 7 mantras.

Total: 7 Verses • Citations: AV 20.5.1–7 • 2 Lexicon Terms
१-७ इरिम्बिठिः। इन्द्रः। गायत्री।
अ॒यमु॑ त्वा विचर्षणे॒ जनी॑रिवा॒भि संवृ॑तः । प्र सोम॑ इन्द्र सर्पतु
तु॒वि॒ग्रीवो॑ व॒पोद॑रः सुबा॒हुरन्ध॑सो॒ मदे॑ । इन्द्रो॑ वृ॒त्राणि॑ जिघ्नते
इन्द्र॒ प्रेहि॑ पु॒रस्त्वं विश्व॒स्येशा॑न॒ ओज॑सा ।वृ॒त्राणि॑ वृत्रहं जहि
दी॒र्घस्ते॑ अस्त्वङ्कु॒शो येना॒ वसु॑ प्र॒यच्छ॑सि । यज॑मानाय सुन्व॒ते
अ॒यं त॑ इन्द्र॒ सोमो॒ निपू॑तो॒ अधि॑ ब॒र्हिषि॑ । एही॑म॒स्य द्रवा॒ पिब॑
शाचि॑गो॒ शाचि॑पूजना॒यं रणा॑य ते सु॒तः। आख॑ण्डल॒ प्र हू॑यसे
यस्ते॑ शृङ्गवृषो नपा॒त् प्रण॑पात् कुण्ड॒पाय्यः॑ । न्यस्मिन्दध्र॒ आ मनः॑
← Previous (Ch. 597) Full Table of Contents Next (Ch. 599) →